आज के हम इस पोस्ट मे संस्कृत में भगत सिह पर निबंध | Easy essay on bhagat Singh in Sanskrit ( bhagat singh in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में भगत सिह पर निबंध | Easy essay on bhagat Singh in Sanskrit
भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत् । कश्चन सायन्तनः कालः । त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत् । ताभ्यां सह कश्चन वृद्धः अपि आसीत् । सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः । तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म । भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्टं प्राप्तवन्तः । बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान् । बालकः क्षेत्रे उपविश्य किमपि खनति स्म । “किं करोति वत्स?” इति पिता पृष्टवान् । “पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि ।” इति बालकः उक्तवान् ।
तस्य बालस्य नयनद्वयं द्योतते स्म । क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म । तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम् । सः बालकः एव भगतसिंहः । अनन्तरकाले मातृभूमिं स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः । पञ्जाबप्रान्तेलाहोरजनपदे बङ्गा इति ग्रामः । सरदारकिषनसिंह इत्येतस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म । तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कारयितुं युद्धं कृतवन्तः ।

बालके भगतसिंहे सर्वे स्निह्यन्ति स्म । अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म । तस्य मातुः विद्यावत्याः जीवनम् आरम्भतः अपि कष्टैरेव यातम् । क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूरे एव भवति स्म । भगतसिंहस्य कनिष्ठपितृव्यौ आस्ताम् । तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्तः । कारागारजीवनं दुर्भरम् आसीत् ।
अतः स्वरणसिंहः रोगग्रस्तः अभवत् । कारागारतः विमोचनानन्तरमपि तस्य स्वास्थ्यं सम्यक् नाऽभवत् । कतिपयदिनेषु सः दिवङ्गतः ।दोषिणां विषये न्यायालये वादप्रतिवादमारब्धम् । तेषु दिनेषु राजनैतिककारणैः बद्धानां विषये अधिकारिणः सम्यक् न व्यवहरन्ति स्म । तेभ्यः उत्तमं भोजनं न ददाति स्म । तान् अनेकधा पीडयन्ति स्म । भगतसिंहः, तस्य अनुचराश्च तादृशलज्जास्पदानां कार्याणां विषये सङ्घर्षं कर्तुं निश्चितवन्तः ।
READS MORE :- संस्कृत में जवाहर लाल नेहरु पर निबंध | Easy essay on Jawahar lal Nehru in Sanskrit ,संस्कृत में भगत सिह पर निबंध | Easy essay on bhagat Singh in Sanskrit
संस्कृत में भगत सिह पर 10 निबंध | 10 lines Easy essay on bhagat Singh in Sanskrit
- भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत् ।
- त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत् ।
- पञ्जाबप्रान्तेलाहोरजनपदे बङ्गा इति ग्रामः ।
- सरदारकिषनसिंह इत्येतस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म ।
- अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म ।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit ,संस्कृत में भगत सिह पर निबंध | Easy essay on bhagat Singh in Sanskrit

Last lines:-
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में भगत सिह पर निबंध | Easy essay on bhagat Singh in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit
Sutli pad
Very good essay to read as well as to write, Bhagat singhs contribution towards the nation is more that anything…