संस्कृत में क्रिकेट पर निबंध | Easy essay on Cricket in Sanskrit

Easy essay on Cricket in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में क्रिकेट पर निबंध | Easy essay on Cricket in Sanskrit ( cricket in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में क्रिकेट पर निबंध | Easy essay on Cricket in Sanskrit

क्रिकेट् -क्रीडाया जन्म प्रायेण षडशतवर्षेभ्यः पूर्वम् अभूत् । इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते यत् क्रिकेटस्य सर्वतः प्रथमं क्रीडनं केण्टस्थिते निवेण्डने त्रयोदश्यां शत्यां समपद्यत इति । आक्स्फोर्ड्-पुस्तकालयस्य भित्तौ एकं चित्रम् आचित्रितं विद्यते यस्मिन् द्वौ क्रिस्तधर्मगुरू क्रिकेटं क्रीडमानौ चित्रितौ स्तः । एताभ्याम् अपि अस्याः क्रीडायाः प्रारम्भविषये ज्ञातुं शक्यते ।सर्वप्रथमं ‘क्रिकेट्’ –क्रीडार्थम् एकस्याः अण्डाकारस्य वृत्ताकारस्य वा शाद्वलिताङ्गणस्य आवश्यकता भवति । अस्य आयाम-विस्तार-व्यासानां विषये नास्ति कश्चन विशिष्टः नियमः । अस्मिन् क्रीडाङ्गण(प्ले ग्राउण्ड)क्षेत्रे स्वल्पानि तृणानि अवश्यं कर्तितानि भवन्ति । उभयतः जवनिका पटो वा निबदघ्यते ।

Easy essay on Cricket in Sanskrit

पटयोः मध्ये तृणकर्तनपुरस्सरं भूमिः समतला विधीयते । तस्यां ‘धावनस्थली’ निर्मियते यत्र कन्दुकप्रक्षेपो भवति । इदमङ्गणं ६ संख्यकाः क्रीड्का एव स्वाधिकारे रक्षन्ति ।क्रीडकसंख्या दलव्यवस्था च अस्यां क्रीडायां दलद्वय भवति । प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति । तेषु प्रत्येकं दलस्य एकः नायको भूत्वा स्वं स्वं दलं नियन्त्रयति । दलनायकौ सम्भूय क्रीडासमयं निर्णयतः । क्रीडाया नियमानां यथावत् संरक्षणाय द्वौ निर्णायकौ (अम्पायर् )भवतः ययोः निर्णयः द्वयोरपि दलयोः कृते मान्यो भवति । क्रिकेट्-क्रीडा साम्प्रतं विश्वव्यापिनी विद्यते । अस्यां क्रीडायां जनरुच्यनुसारम् अनेके नियमाः यथावसरं परिष्क्रियन्ते, परिवर्त्यन्ते । बहवः नियमाः तु सूक्ष्मतमाः सन्तः अतीव महत्त्वं भजन्ते । क्रीडेच्छावतां निपुणानां क्रीडकानां साहचर्येण ते ज्ञातव्याः परिपालनीयाश्च । तथाऽपि अत्र निर्देशरूपेण केषाञ्चन सूचनाः उपस्थाप्यन्ते ।

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit ,.संस्कृत में क्रिकेट पर निबंध | Easy essay on Cricket in Sanskrit

संस्कृत में क्रिकेट पर 10 निबंध | 10 Easy essay on Cricket in Sanskrit

  1. क्रिकेट् -क्रीडाया जन्म प्रायेण षडशतवर्षेभ्यः पूर्वम् अभूत् |
  2. क्रिकेट्-क्रीडा साम्प्रतं विश्वव्यापिनी विद्यते ।
  3. इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते |
  4. सर्वप्रथमं ‘क्रिकेट्’ –क्रीडार्थम् एकस्याः अण्डाकारस्य वृत्ताकारस्य वा शाद्वलिताङ्गणस्य आवश्यकता भवति ।
  5. क्रीडकसंख्या दलव्यवस्था च अस्यां क्रीडायां दलद्वय भवति ।
  6. पटयोः मध्ये तृणकर्तनपुरस्सरं भूमिः समतला विधीयते ।
  7. प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति ।

READS MORE :- संस्कृत में हॉकी पर निबंध | Easy essay on Hokey in Sanskrit

Easy essay on Cricket in Sanskrit

Last lines:-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में क्रिकेट पर निबंध | Easy essay on Cricket in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top