संस्कृत में दीपावली पर निबंध | Easy essay on Diwali in Sanskrit

Easy essay on Diwali in Sanskrit
Rate this post

आज के हम इस पोस्ट में संस्कृत में दीपावली पर निबंध | Easy essay on Diwali in Sanskrit( Deepawali in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में दीपावली पर निबंध | Easy essay on Diwali in Sanskrit

दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।

Easy essay on Diwali in Sanskrit

बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति । इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।

READS MORE :- संस्कृत में महाशिवरात्रि पर निबंध | Easy essay on Mahashivratri in Sanskrit ,संस्कृत में दीपावली पर निबंध | Easy essay on Diwali in Sanskrit

संस्कृत में दीपावली पर 10 निबंध |10 lines Easy essay on Diwali in Sanskrit

  1. दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति ।
  2. दीपावलि इत्युक्ते दीपानाम् आवलिः ।
  3. सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति ।
  4. दीपानां प्रकाशः अन्धकारम् अपनयति ।
  5. रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।
  6. बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति ।
  7. अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति ।
  8. भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति ।
  9. ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।

READS MORE :- संस्कृत में दुर्गा पूजा पर निबंध | Easy essay on Durga Puja in Sanskrit ,संस्कृत में दीपावली पर निबंध | Easy essay on Diwali in Sanskrit

Easy essay on Diwali in Sanskrit

Last lines:-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में दीपावली पर निबंध | Easy essay on Diwali in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top