आज के हम इस पोस्ट मे संस्कृत में गणेश जी पर निबंध | Easy essay on Ganesh ji in Sanskrit ( ganesh ji in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में गणेश जी पर निबंध | Easy essay on Ganesh ji in Sanskrit
गणेशः प्रसिद्धा हिन्दुदेवता । शिवपार्वत्योः प्रथमः पुत्रः भवति। गणः नाम समूहः, गणानाम् ईशः गणेशः इति। सः विनायकः इति नाम्नि अपि प्रसिद्धः। सः गजवक्त्रः वर्तते। स एव विघ्ननाशकः। अतः एव सः कार्यारम्भे पूज्यते । सः भक्तप्रियदेवः। तस्य भक्ताः गाणपतेः इति ख्याताः। गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति। सः न केवलं हैन्दवैः किन्तु बौद्धैः जैनैः अपि पूजितः।गणेशः पौराणिकशास्त्रानुसारेण गजशिरधारिदेवतारूपेण पूजिता अस्ति। तस्य एकः दन्तः अर्धः वर्तते। बृहदाकारोदरम् अस्य अवयवे विलक्षणतया दृश्यते। गणेशस्य चरणदेशे विविधभक्ष्याणि भवन्ति। तत्पुरतः मूषिकः स्थितः वर्तते।आध्यात्मिकशिक्षायाः प्रथमसोपानं भवति ‘श्रवणम्’, तन्नाम वेदान्ते विद्यमानानां परमसत्यानां श्रवणम् ।

द्वितीयसोपानं ‘मननं’ तत्सत्यस्य स्वातन्त्रप्रतिच्छाया एव। श्रवणमननमाध्यमेन सर्वज्ञताम् अर्जयितुं शक्यते। गजाननस्य बृहदाकारकं कर्णं मस्तकञ्च तदेव द्योतयति।गणेशस्य हस्तचतुष्टयं मन- बुद्धि-अहंकार-चित्तं च द्योतयति। गणेशः स्वयं सच्चिदानन्दस्वरूपः भूत्वा आत्मोपलब्धेः चत्वारि उपादानानि प्रदर्शयति।शुण्डं गजाननस्य अवयवे लाक्षणिकतया तिष्ठति। स्थूलसूक्ष्मकार्ययोः सम्पादनं गजशुण्डस्य अत्याश्चर्यगुणं भवति। यथा शुण्डेन वृक्षोत्पाटनं कर्तुं शक्यते तथैव शुण्डेन भूमौ पतितां सूचीं अपि स्वीकर्तुं शक्यते। वक्रतुण्डस्य बुद्धिमत्ता स्थूल(वस्तुनिष्ठजगत्)-सूक्ष्म(पारमार्थिकजगत्)जगतोः मध्ये सेतुबन्धं करोति। परमात्मनः प्राप्त्यर्थं तन्मार्गेण (स्थूलात् सूक्ष्मं प्रति) एव गमनीयेति जनान् सूचयति ।महत् उदरं सूचयति यत् खादितानि सर्वाणि खाद्यानि जीर्णीकर्तुं समर्थं वर्तते इति ।
तथैव आदर्शः पुरुषः स्वस्य जीवने घट्यमानाः सर्वविधघटनाः अपि निश्चलमनसा जीर्णीकुर्याद् इति ।गणेशः सर्वदा एकस्य उपरि अपरं पादं संस्थाप्य उपविशति। एकः पादः भूमौ स्थितः भवति । तस्य व्यक्तित्वस्य कश्चन अंशः पार्थिवलोके भवति अपरः तु सर्वदा परमसत्ये एकनिष्ठतया स्थितः भवति। तथा मनुष्योऽपि पार्थिवलोके स्थित्वा योगबलेन मूलभूतात्मोपलब्धिं कर्तुं शक्नोति।तस्य मूर्तयः मन्दिरेषु गृहेषु च प्राचुर्येण दृश्यन्ते। तस्य एकदन्तकं गजवक्त्रम् अस्ति। तस्य उदरं भाण्डाकारम्। सः नागयज्ञोपवितम् धरति। तस्य चत्वारः बाहवः सन्ति। सः पाशम् अङ्कुशं मोदकं च धरति। सः एकहस्तेन आशिषं ददाति।गाणपत्यसम्प्रदायस्य प्रधानग्रन्थौ द्वौ स्तः । गणेशविषयके द्वे उपपुराणे (गणेशमुद्गलश्च) पृथग्पृथकतया गणेशस्य क्रमशः चत्वारः एवं अष्ट अवताराः सन्ति इति कथयति ।
READS MORE :- संस्कृत में महाशिवरात्रि पर निबंध | Easy essay on Mahashivratri in Sanskrit ,संस्कृत में गणेश जी पर निबंध | Easy essay on Ganesh ji in Sanskrit
संस्कृत में गणेश जी पर 10 निबंध | 10 lines Easy essay on Ganesh ji in Sanskrit
- गणेशः प्रसिद्धा हिन्दुदेवता । शिवपार्वत्योः प्रथमः पुत्रः भवति।
- गणः नाम समूहः, गणानाम् ईशः गणेशः इति |
- सः विनायकः इति नाम्नि अपि प्रसिद्धः।
- अतः एव सः कार्यारम्भे पूज्यते ।
- गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति।
- ।गणेशस्य हस्तचतुष्टयं मन- बुद्धि-अहंकार-चित्तं च द्योतयति |
- तन्नाम वेदान्ते विद्यमानानां परमसत्यानां श्रवणम् ।
READS MORE :- संस्कृत में दुर्गा पूजा पर निबंध | Easy essay on Durga Puja in Sanskrit ,संस्कृत में गणेश जी पर निबंध | Easy essay on Ganesh ji in Sanskrit

Last lines:-
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में गणेश जी पर निबंध | Easy essay on Ganesh ji in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit