संस्कृत में गंगा नदी पर निबंध | Easy essay on Ganga river in Sanskrit

Easy essay on Ganga river in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में गंगा नदी पर निबंध | Easy essay on Ganga river in Sanskrit ( Ganga in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में गंगा नदी पर निबंध | Easy essay on Ganga river in Sanskrit

गङ्गा नदी दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी| भागीरथी उत्तराञ्चले हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति अलकनन्दाम् संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे यमुना गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।गङ्गायां द्विविधौ शिशुमारौ(मत्स्यविशेषः) स्तः। तौ गङ्गाशिशुमारः इरावतीशिशुमारः च। गङ्गायां केचन विरलाः कुम्भीराः(मकराः) अपि वसन्ति। हैन्दवाः गङ्गादेवीं माता इव पूजयन्ती| गङ्गायाः तीरे अनेके हरिद्वार-काश्यादीनि पवित्राणि तीर्थस्थलानि सन्ति। गङ्गास्नानं सर्वाणि पापानि अपहरति मोक्षमपि ददाति इति जनाः मन्यन्ते।

Easy essay on Ganga river in Sanskrit

श्रद्धावन्तः हैन्दवाः गङ्गास्नानं कर्तुं यात्रां कुर्वन्ति। तस्याः तीरे अपि तपः कुर्वन्ति | एकदा ब्रह्मा विष्णुपादधूलिं संयोज्य गङ्गाम् निर्माति स्म। अत एव गङ्गा अति पवित्रा। भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र प्रकृतिं पञ्जमहाभूतानि इति कथयामः। ये अस्माकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं वायुः अग्निः इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकाल‌ात् अस्माकं देशे पवित्रभावनयापूज्यमाना एषा नदी इदानीं प्रदूषिता अस्ति । भारतीयसर्वकारेण गङ्गायाः पुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् । सा परियोजना इदानीमपि चलन्ती अस्ति ।

किन्तु यावत् वयम् आधुनिकाः नागरिकाः मानवाः जागरिताः न भवेम तावत् समस्या भवति एव । गङ्गनदीतीरप्रदेशे विद्यमानानां यन्त्रागाराणां स्वामिनः अशुद्धजलं शुद्धीकृत्य त्यजेयुः । सार्वजनिकाः व्यर्थवस्तूनि नद्यां न प्रक्षिपेयुः । नगरीकरणानाम् अथवा अन्यव्याजेन अरण्यनाशः न सहनीयः । एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयाः अनुष्ठाने च गभीरक्रमः पालनीयः भारतसर्वकारेण । एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण तिष्ठेत् ।

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit , संस्कृत में गंगा नदी पर निबंध | Easy essay on Ganga river in Sanskrit

संस्कृत में गंगा नदी पर 10 निबंध | 10 Easy essay on Ganga river in Sanskrit

1. गङ्गाया अखिलविश्वस्य नदीषु महत्त्वपूर्णं स्थानं वर्ततेl

2.सुरधुनीयम्, भागीरथी, विष्णुनदी, जाह्नवी आदि अस्याः अन्यानि नामानि सन्तिl

3.गङ्गा हिमालयात् नि:सृताl

4.भारतवर्षस्य धरित्रीं शस्यश्यामला निर्मातुं गङ्गायाः उपकारः अनिर्वचनीयःl

5.भारतवर्षस्य अनेकानि प्रमुखानि नगराणि अस्याः तटे स्थिताः सन्तिl

6.गङ्गायाः पावने कूले अमेकानि तीर्थस्थानामि सन्तिl

7.गङ्गोदकं स्वच्छं शीतलं, तृषीशामकं, रुचिवर्द्धकं, सुस्वादु, रोगापहारि च भवतिl

8.गङ्गायाः जले कीटाणवः न जायन्तेl

9.जना इमां ‘गङ्गामाता इति सम्बोधयन्तिl

10. गङ्गा नदी दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी|

11.भागीरथी उत्तराञ्चले हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति अलकनन्दाम् संयाति।

12.देवप्रयागात् एव सा गङ्गा इति कथ्यते।

Easy essay on Ganga river in Sanskrit

READS MORE :- संस्कृत में हिमालय पर निबंध | Easy essay on Himalaya in Sanskrit , संस्कृत में गंगा नदी पर निबंध | Easy essay on Ganga river in Sanskrit

Last lines:-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में गंगा नदी पर निबंध | Easy essay on Ganga river in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top