आज के हम इस पोस्ट मे संस्कृत में हिंदी भाषा पर निबंध | Easy essay on Hindi language in Sanskrit ( Hindi language in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में हिंदी भाषा पर निबंध | Easy essay on Hindi language in Sanskrit
हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिशस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते ।

भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति । हिन्दीशब्दस्य मूलं संस्कृतस्य सिन्धुशब्दः इति मन्यते । ‘सिन्धु’इत्येषः शब्दः सिन्धुनदीं सिन्धुनदीं परितः विद्यमानां भूमिं च निर्दिशति । अयं सिन्धुशब्दः इरानीयानां मुखे ‘हिन्दु’ इति जातम् । ततः हिन्दी, हिन्द इति जातम् । अग्रे इरानीयाः भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा ‘हिन्द्’शब्देन पूर्णं भारतं निर्देष्टुम् आरब्धवन्तः । इरानीभाषायाः ‘ईक’प्रत्ययस्य योजनेन ‘हिन्दीक’ (हिन्दस्य) इति जातम् । यूनानीशब्दस्य ‘इन्दिका’शब्दस्य आङ्ग्लशब्दः ‘इण्डिया’इति जातम् । हिन्दीभाषा हिन्द-युरोपीयभाषापरिवारे अन्तर्भवति ।
इयं हिन्द्-इरानीशाखायाः हिन्द्-आर्य-उपशाखायां वर्गीकृता अस्ति । हिन्द-आर्यभाषाः संस्कृतभाषोत्पन्नाः सन्ति । उर्दू, कश्मीरी, बंगाली, उड़िया, पंजाबी, रोमानी, मराठी नेपाली इत्यादयः भाषाः हिन्द-आर्यभाषाः सन्ति । अपभ्रंशस्य समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः ‘सङ्क्रान्तिकालः’इति निर्देष्टुं शक्यः । हिन्दीभाषायाः स्वरूपं शौरसेनी-अर्धमागधीभाषयोः अपभ्रंशात् विकसितमस्ति । १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते ।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit ,संस्कृत में हिंदी भाषा पर निबंध | Easy essay on Hindi language in Sanskrit
संस्कृत में हिंदी भाषा पर 10 निबंध | 10 line Easy essay on Hindi language in Sanskrit
- हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते ।
- भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते ।
- विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः ।
- भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः ६० कोट्यधिकाः सन्ति ।
- एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च ।
- ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।
- इयं हिन्द्-इरानीशाखायाः हिन्द्-आर्य-उपशाखायां वर्गीकृता अस्ति ।
READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit

Last lines:-
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में हिंदी भाषा पर निबंध | Easy essay on Hindi language in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit