आज के हम इस पोस्ट मे संस्कृत में शेर पर निबंध | Easy essay on Lion in Sanskrit ( tiger in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में शेर पर निबंध | Easy essay on Lion in Sanskrit
सिंहःपशुः वनवासी पशुः अस्ति।सिंहः ग्रामे न वसति, किन्तु वने । अरण्यवासिनां गजशार्दूलवराहादीनां मध्ये सिंहः शूरः गम्भीरः बलिष्ठश्च । अनुपमपराक्रमेण सः सर्वान् मृगान् अतिशेते । अत एव तस्य ‘मृगराजः’ इति प्रसिद्धिः अस्ति पराक्रमे सिंहाः लोकसिद्धाः । अनेन कारणेन वीरपुरुषान् सिंहाः इति प्रशंसन्ति ।सिंहस्य शिरसि कण्ठे च केसराः सन्ति । तस्मात् तस्य ‘केसरी’ इति अपरं नाम । तस्य आस्यम् अतीव विस्तृतम् । तेन कारणेन तं पञ्चास्यः इति च व्यवहारन्ति । सिंहस्य लोचने पिङ्गलवर्णे स्तः । तस्य अतिदीर्घाः निशिताः नखाः परुषाः दन्ताश्च सन्ति । केसरिणः न सर्वेषु देशेषु निवसन्ति ।

आफ्रिकाखण्डे ते प्राचुर्येण सञ्चरन्ति । इदानीं गुजरात् -राज्यस्य दक्षिणप्रान्तारण्येषु च वसन्ति । मृगराजः प्राधान्येन गजस्य कुम्भस्थलं भित्त्वा तत्रस्थं मांसं भक्षयति । सः वने स्थितान् इतरानपि मृगान् ह्त्वा खादति । तदा तदा सः तारं गर्जति । तत् भीकरगर्जनं श्रुत्वा मृगाः इतस्ततः धावन्ति । तत्समये सिंहः तेषामुपरि निपत्य तान् संहरति । यदा तस्य आहारः आवश्यकः तदा एव सः मृगान् व्यापादयति। प्रायशः आहारमलभमानः सिंहः सर्वावयवान् स्तब्धीकृत्य भूमौ पतित्वा मृत इव नाटयति । मृगाः तथास्थितं तं मृतं मन्यमानाः तस्य समीपे निशशङ्कां चरन्ति । सिंहः सहसा उत्थाय स्व्समीपमागतं मृगं गृह्णाति । एवं मृगोन्द्राः स्वबुद्धिचातुर्येण आहारं सम्पादयन्ति । उद्यमेन हि सिध्यन्ति कार्याणि न मनोरयैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
READS MORE :- संस्कृत में जवाहर लाल नेहरु पर निबंध | Easy essay on Jawahar lal Nehru in Sanskrit
संस्कृत में शेर 10 पर निबंध | 10 lines Easy essay on Lion in Sanskrit
- सिंहःपशुः वनवासी पशुः अस्ति।
- सिंहः ग्रामे न वसति, किन्तु वने ।
- अनुपमपराक्रमेण सः सर्वान् मृगान् अतिशेते ।
- अत एव तस्य ‘मृगराजः’ इति प्रसिद्धिः अस्ति l
- मृगराजः प्राधान्येन गजस्य कुम्भस्थलं भित्त्वा तत्रस्थं मांसं भक्षयति ।
- तेन कारणेन तं पञ्चास्यः इति च व्यवहारन्ति ।
- सिंहस्य लोचने पिङ्गलवर्णे स्तः ।
- आफ्रिकाखण्डे ते प्राचुर्येण सञ्चरन्ति ।
- सिंहः सहसा उत्थाय स्व्समीपमागतं मृगं गृह्णाति
READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit ,संस्कृत में शेर पर निबंध | Easy essay on Lion in Sanskrit

Last lines:-
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में शेर पर निबंध | Easy essay on Lion in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit