संस्कृत में महाराणा प्रताप पर निबंध | Easy essay on Maharana Pratap in Sanskrit

Easy essay on Maharana Pratap in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में महाराणा प्रताप पर निबंध | Easy essay on Maharana Pratap in Sanskrit ( Maharana Pratap in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में महाराणा प्रताप पर निबंध | Easy essay on Maharana Pratap in Sanskrit

‘मेवाड’ इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म ।यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव ।

Easy essay on Maharana Pratap in Sanskrit

एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् – किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा “तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष ” इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय ।मेवाडराज्यस्य मुख्यसङ्घर्षः मुघलसेनया सह आसीत् । प्रतापस्य शासनावधौ ‘अकबर’इति नामकः मुधलसम्राट् आसीत् । प्रतापस्य २५ वर्षाणां शासनकाले अकबरस्य सेनया सह अनेकवारं युद्धम् अभवत् । मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् ‘हल्दीघाटीयुद्धम्’ इति नाम्ना प्रसिद्धम् अस्ति ।प्रतापः स्वजन्मस्थानमेव परित्यज्य गतवानिति तस्य शत्रवः परिहासरताः आसन् । इतः परं पुनः स योद्धम् आगच्छेदिति स्वप्नेऽपि ते न चिन्तयन्ति स्म । किन्तु महाराणाप्रतापः तेषां निरीक्षां मिथ्यां कृत्वा पराक्रन्तां स्वकीयराज्यसीमाम् अपूर्वेण पराक्रमेण स्वाधीनां कर्तुम् अभ्यपतत् ।

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit , संस्कृत में महाराणा प्रताप पर निबंध | Easy essay on Maharana Pratap in Sanskrit

संस्कृत में महाराणा प्रताप पर 10 निबंध | 10 lines Easy essay on Maharana Pratap in Sanskrit

  1. एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् – किञ्चिद्भागं दत्तवती ।
  2. तस्य पिता उदयसिंहः ।
  3. अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे ।
  4. तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप ।
  5. मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् ‘हल्दीघाटीयुद्धम्’ इति नाम्ना प्रसिद्धम् अस्ति ।

READS MORE :- संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit

Easy essay on Maharana Pratap in Sanskrit

Last lines:-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में महाराणा प्रताप पर निबंध | Easy essay on Maharana Pratap in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top