आज के हम इस पोस्ट मे संस्कृत में महाशिवरात्रि पर निबंध | Easy essay on Mahashivratri in Sanskrit ( Maha shiv ratri in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में महाशिवरात्रि पर निबंध | Easy essay on Mahashivratri in Sanskrit
माघमास्स्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तीर्थराज: इति उच्यते तथैव महाशिवरात्रि: व्रतराज: इति उच्यते । एतत् पर्व यद्यपि शैवाणां परमपवित्रं तथापि अन्यै: अपि आचरणीयम् अन्यथा तेषां पूजाफलं नश्यति इति वदन्ति शास्त्राणि ।शिवरात्र्यां य: उपवासं जागरणं च ज्ञात्वा अज्ञात्वा आचरति स: स्वर्गं गच्छति इति वदन्ति शास्त्राणि । सामन्यतया देवतापूजार्थं दिवासमय: एव प्रशस्त: । किन्तु शिवरात्रिपर्वणि तस्य नामानुगुणं रात्रिरेव प्रशस्तकाल: पूजार्थम् । सम्पूर्णम् उपवासं कृत्वा रात्रौ जागरणम् आचरणीयम् । रात्रौ एव पूजा करणीया इति । कलियुगे चतुर्दश्यां रात्रौ केवलं भूमौ सञ्चरन् समस्तस्थावरजङ्गमेषु सङ्क्रमिष्यामि । समग्रे वर्षे कृतं पापं परिहरामि ।

दिवासमये तद्दिने एवं महिमा न भवति इति महेश्वर: एव अवदत् इति शास्त्रवाक्यम् अस्ति ।शिवरात्र्याचरणं स्यात् शिवस्य प्रियं यथा शिवस्य ध्यानानन्द: आत्मगुणसम्पत्ति: अत्यन्तं प्रियौ स्त: । सर्वभूतेषु दया, निरसूया, शुचित्वम्, अनायास:, क्षमागुण:, अकार्पण्यभाव:, मङ्गलं, दुराशां विना जीवनम् इत्येतानि एव अष्ट आत्मगुणा: । अहिंसा, सत्यम्, अक्रोध:, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् । पूर्वदिने रात्रौ उपवासं कृत्वा प्रात: नित्यकर्माणि समाप्य शुचिर्भूत्वा निर्विघ्नतया व्रतमिदं परिसमाप्तिं गच्छतु इति प्रार्थनां समर्प्य सङ्कल्पं कुर्वन्ति । शतरुद्रीयं, श्रुतिसूक्ती:, शिवपञ्चाक्षरमहामन्त्रं, पुरुषसूक्तं च वदन्त: पञ्चगव्येन पञ्चामृतेन च शिवलिङ्गस्य अभिषेकं कुर्वन्ति ।
ध्यानसमाधिरूपम् आन्तरिकपूजया सह आवाहन-आसन-अर्घ्य-पाद्य-आचमनीय-अभिषेक-वस्त्र-उपवीत-गन्ध-पुष्प-धूप-दीप-अर्चन-नैवेद्य-प्रदक्षिणनमस्कार-स्तोत्र-नृत्य-गीत-वाद्यरूपा बाह्यपूजा अपि तद्दिने आचर्यते । तत्रापि विशेषतया षोडशोपचारेषु अभिषेक: शिवस्य अत्यन्तं प्रिय: इति उक्तम् अस्ति शास्त्रेषु । अलङ्कारप्रियः विष्णु: अभिषेकप्रिय: शिव: इति ।
READS MORE :-संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit ,संस्कृत में महाशिवरात्रि पर निबंध | Easy essay on Mahashivratri in Sanskrit
संस्कृत में महाशिवरात्रि पर 10 निबंध | 10 lines Easy essay on Mahashivratri in Sanskrit
- माघमास्स्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व ।
- प्रयागपुष्करः यथा तीर्थराज: इति उच्यते तथैव महाशिवरात्रि: व्रतराज: इति उच्यते ।
- शिवरात्र्यां य: उपवासं जागरणं च ज्ञात्वा अज्ञात्वा आचरति स: स्वर्गं गच्छति इति वदन्ति शास्त्राणि ।
- सामन्यतया देवतापूजार्थं दिवासमय: एव प्रशस्त: ।
- अहिंसा, सत्यम्, अक्रोध:, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् ।
- किन्तु शिवरात्रिपर्वणि तस्य नामानुगुणं रात्रिरेव प्रशस्तकाल: पूजार्थम् ।
- अलङ्कारप्रियः विष्णु: अभिषेकप्रिय: शिव: इति ।
READS MORE :- संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit

Last lines:-
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में महाशिवरात्रि पर निबंध | Easy essay on Mahashivratri in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit