आज के हम इस पोस्ट मे संस्कृत में मुंबई पर निबंध | Easy Essay on Mumbai in Sanskrit ( Mumbai in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।
संस्कृत में मुंबई पर निबंध | Easy Essay on Mumbai in Sanskrit
मुम्बई महाराष्ट्रराज्यस्य राजधानी अस्ति । एतन्नगरं भारतदेशस्य विशालं, प्रगतं च नगरम् । भारते लोकसङ्ख्यादृष्ट्या प्रथमस्थाने, पृथिव्यां द्वितीयस्थाने च वर्तते एतन्नगरम् । भारतस्य पश्चिमे, समुद्रतटे एतद् नगरं स्थितम् । अरबी-समुद्रतटे यानि नौकास्थानानि सन्ति तेषु अन्यतमं सर्वोत्कृष्टमिदम् । इदं मुम्बई महानगरं गगनस्पर्शिभवनैः आभारतम् एव अद्वितीयम् अस्ति । विश्वे २५ बृहन्नगरेषु अन्यतममिदम् । भारतदेशे वर्तमानेषु नगरेषु द्वितीयं बृहन्नगरम् । ‘बोलिवुड्’ नाम्ना प्रसिद्धः हिन्दी-चलच्चित्रोद्यमः इतः एव प्रवर्तते । मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य ‘मुम्बापुरी’ इति नाम आसीत् इति कथ्यते ।
आङ्गलानां प्रशासनकाले ‘बॉम्बे’ नाम्ना प्रख्यातम् अभवत् । लघु-’धाकटा’ कुलाबा, बृहत्-‘मोठा’ कुलाबा, मुम्बई, माझगाव, परळ, वरळी, माहीम इत्येतानां द्वीपानां एकत्रीकरणेन मुम्बईनगरं निर्मापितम् । इदानीं मुम्बई इति अधिकृततया नाम दत्तम् अस्ति ।टोलेमि इत्यस्य प्रवासवर्णने ‘हेप्टानेशिया’ इति यः उल्लेख: दृश्यते स: मुम्बईसम्बद्ध: इति मन्यते । अत्यन्तपुरातनानि पाषाणसाधनानि, पुरातनाः अवशेषाश्च उपलभ्यन्ते । अस्मिन् विभागे पञ्चमशतकात् आरभ्य क्रमश: आभीर-त्रैकूटक-मौर्य-चालुक्य-राष्ट्रकूट-शिलाहार-यादवराजानां च आधिपत्यमासीत् । शिलाहारराजानाम् आधिपत्ये वाळकेश्वरमन्दिरस्य स्थापना जाता इति जना: मन्यन्ते । यादवानां समनन्तरं २५ वर्षेभ्य: एव मुम्बईपरिसरे हिन्दुसाम्राज्यस्यान्त: जात: ।

मुम्बई नगरस्य विस्तार: ६०३ कि.मी. मित: अस्ति । नगरस्य पश्चिम-दक्षिण-आग्नेय-भागेषु सागरतट: अस्ति, ईशान्यदिशि ठाणेमण्डलमस्ति । इदानीमपि द्वीप-योजनस्य चिह्नानि दृश्यन्ते । मुम्बईनगरं सागरतटे अस्ति अत: साधारणतया उष्णम्, आर्द्रं च वातावरणम् अत्र भवति । जून मासत: सप्टेम्बर-मासाभ्यान्तरं नैऋत्य-मान्सून-वायुना वृष्टिपात: भवति । १८० से.मी. वार्षिकवृष्टिपातः भवति । नगरेऽस्मिन् नारिकेल:-‘ताड’-आम्रफलं-तिन्त्रिणी-वट-वृक्षा: अधिका: सन्ति । आधुनिकभारतनिर्माणे मुम्बई नगरस्य सहभाग: महत्वपूर्ण: । नैकानां राजकीय-सामाजिक-सांस्कृतिक-आर्थिकान्दोलनानाम् आरम्भस्थलमिदम् ।
READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit ,संस्कृत में मुंबई पर निबंध | Easy Essay on Mumbai in Sanskrit
संस्कृत में मुंबई 10 लाइन पर निबंध | 10 lines Essay on Mumbai in Sanskrit
- मुम्बई महाराष्ट्रराज्यस्य राजधानी अस्ति ।
- एतन्नगरं भारतदेशस्य विशालं, प्रगतं च नगरम् ।
- भारते लोकसङ्ख्यादृष्ट्या प्रथमस्थाने, पृथिव्यां द्वितीयस्थाने च वर्तते एतन्नगरम् ।
- इदं मुम्बई महानगरं गगनस्पर्शिभवनैः आभारतम् एव अद्वितीयम् अस्तिl
- भारतदेशे वर्तमानेषु नगरेषु द्वितीयं बृहन्नगरम् ।
- आङ्गलानां प्रशासनकाले ‘बॉम्बे’ नाम्ना प्रख्यातम् अभवत् ।
- मुम्बई नगरस्य विस्तार: ६०३ कि.मी. मित: अस्ति ।
- नगरस्य पश्चिम-दक्षिण-आग्नेय-भागेषु सागरतट: अस्ति, ईशान्यदिशि ठाणेमण्डलमस्ति ।
- इदानीं मुम्बई इति अधिकृततया नाम दत्तम् अस्ति ।
- यादवानां समनन्तरं २५ वर्षेभ्य: एव मुम्बईपरिसरे हिन्दुसाम्राज्यस्यान्त: जात: ।
- जून मासत: सप्टेम्बर-मासाभ्यान्तरं नैऋत्य-मान्सून-वायुना वृष्टिपात: भवति ।

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit ,संस्कृत में मुंबई पर निबंध | Easy Essay on Mumbai in Sanskrit
Last lines
दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में मुंबई पर निबंध | Easy Essay on Mumbai in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।
READS MORE :- संस्कृत में पर्यावरण पर निबंध | Essay on Paryavaran (environment) in Sanskrit