संस्कृत में मोर पर निबंध | Easy essay on Peacock in Sanskrit

Easy essay on Peacock in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में मोर पर निबंध | Easy essay on Peacock in Sanskrit ( peacock in Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है। आशा करता हूं ये पोस्ट आपको पढ़ने से बहुत मदद मिलेगी।

संस्कृत में मोर पर निबंध | Easy essay on Peacock in Sanskrit

मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव ‘मयूरयष्टिः’ इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य ‘केका’ इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।एषः मयूरः स्कन्दस्य (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं सरस्वत्याः अपि वाहनमिति कथयन्ति । मयूरस्य केकी , भुजङ्गभुक् , शिखी , नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं ‘जातीयसमैक्यं’ सूचयति ।

 Easy essay on Peacock in Sanskrit

तस्मात् मयूरः ‘जातीयविहङ्गः’ इति निर्णीतः । मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान् तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सन् ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान् आसीत् इति श्रूयते । संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति बर्ही इति एतस्य बर्हे नेत्ररुपाः आकाराः बहवः भवन्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः नीलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तः मयूरः पक्षिजातिषु एव सुन्दरतमः । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्ताताभ्रमः जायते प्रतिवर्षं मयूरस्य पुच्छस्य पिञ्छाः पतन्ति , नूतनाः उत्पद्यन्ते च ।

तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम् । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मयूरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।

READS MORE :- संस्कृत में शेर पर निबंध | Easy essay on Lion in Sanskrit ,संस्कृत में मोर पर निबंध | Easy essay on Peacock in Sanskrit

संस्कृत में मोर पर 10 निबंध | 10 line Easy essay on Peacock in Sanskrit

  • (1) मयूर: भारतस्य राष्ट्रीय: खग: अस्ति l
  • (2) अयं सर्वेषु खगेषु अति सुन्दरम् अस्ति l
  • (3) मयूरस्य काय: सर्वेषु खगेषु अत्याधिकं भवति l
  • (4) मयूरस्य मुख: ग्रीवा च नीललोहितवर्ण: अस्तिl
  • (5) अस्य पक्षयो: हरितवर्ण: स्त: l
  • (6) मयूरस्य कलापः मनोहरःl
  • (7) ययोः चन्द्राकार: नीललोहितवर्ण:, नीलवर्ण:, हरितवर्ण:, पीतवर्णाभि: च निर्मितं भवति l
  • (8) मयूर: शान्तिप्रिय: खग: अस्ति l
  • (9) मयूरस्य केका बहुतीव्रं भवति l
  • (10) मयूरस्य नृत्यं तस्य वैभवम एव l
  • (11) मेघानां दर्शनेन मयूरः सन्तुष्यान्तिl

READS MORE :- संस्कृत में नरेन्द्र मोदी (प्रधानमन्त्री) पर निबंध | Essay on Narendra Modi in Sanskrit ,संस्कृत में मोर पर निबंध | Easy essay on Peacock in Sanskrit

Easy essay on Peacock in Sanskrit

Last lines:-

दोस्तों मुझे उम्मीद है कि आपको यह ‘संस्कृत में मोर पर निबंध | Easy essay on Peacock in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

READS MORE :- संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top