संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Essay on Mahatma Gandhi in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है।

संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान्I तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।

अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत् । स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

Essay on Mahatma Gandhi in Sanskrit

READ MORE :-संस्कृत में पर्यावरण पर निबंध | Essay on Paryavaran (environment) in Sanskrit

संस्कृत में महात्मा गाँधी 10 LINES ON MAHATMA GANDHI IN SANSKRIT

(1) अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति। स हि गतोऽपि जीवितः एव अस्तिI

(2) यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्तेI

(3) यशः शरीरेण ते सदा जीवन्तिI

(4) महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत्I

(5) सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्I

(6) मनसि वचसि कर्मणि च तस्य एकता आसीत्I

(7) अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यतI

(8) तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धाI

(9) सः महापुरुषः अपरः बुद्धः आसीत्I

(10) सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत्I

READ MORE :-संस्कृत में पर्यावरण पर निबंध | Essay on Paryavaran (environment) in Sanskrit संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit

Essay on Mahatma Gandhi in Sanskrit

Last line :-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में महात्मा गाँधी पर निबंध | Essay on Mahatma Gandhi in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top