संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit

Essay on Swami Vivekananda in Sanskrit
Rate this post

आज के हम इस पोस्ट मे संस्कृत में संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit ( Swami Vivekananda Sanskrit) लिखेंगे। दोस्तों यह सभी class 4, 5, 6, 7, 8, 9, 10, 11, 12 और कॉलेज के विद्यार्थियों के लिए लिखे गये है।

संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit

सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म।

एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्।

Essay on Swami Vivekananda in Sanskrit

रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् ।

एकः अमेरिकावासी उपहासपूर्वकम् अवदत् – ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् – ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति – “उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।”

READ MORE :- संस्कृत में माता (मां) पर निबंध | Essay on Mother in Sanskrit , संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit

संस्कृत में 10 लाइन स्वामी विवेकानंद पर निबंध | 10 lines Essay on Swami Vivekananda in Sanskrit

1- आधुतिकभारतस्‍य निर्माणकर्तुषु युगपुरूषस्‍य विवेकानन्‍दस्‍य नाम सर्वपरि अस्तिI

2- स: न केवलं भारते अपितु सम्‍पुर्णविश्‍वेे आरध्‍यात्‍मलोकं विकीर्णयति स्‍मI

3- तस्‍य महापुरूषस्‍य जन्‍म 1863 तमे वर्षे अभवतI

4- स्‍वामी विवेकानन्‍दस्‍य विश्‍वनाथदत्‍त: तस्‍य पिता आसीत्I

5- बाल्‍यकाले स्‍वामी: विवेकानन्‍दस्‍य नाम नरेंद्रनाथ: आसीतI

6- विवेकानंन्‍दस्‍य बाल्‍यकालादेव स: अति मेधावी आसीतI

7- आध्‍यात्‍मविषये तस्‍य महती रूचि आसीतI

8- नरेन्‍द्र: यदा स्‍नातकोअभवत तदा तस्‍य ि‍पिता परलोकम अगच्‍छतI

9- एकदा एकस्‍यां सभायां स: रामकृष्‍णपरमहंसमहोदयस्‍य स्‍पर्शमधिगत्‍य समाधिस्‍थोअभवतI

10- तस्‍यैव गुरो: स्‍पर्शेन च तस्‍य समाधि: समात्‍नेाअभवतI

11- तस्‍मात क्षणादेव नरेन्‍द्र: तं स्‍वगुरूम अमन्‍यत तप: च आरभतI

Essay on Swami Vivekananda in Sanskrit
Essay on Swami Vivekananda in Sanskrit संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit

READ MORE :-संस्कृत में भारतीय संस्कृति पर निबंध | Essay on Indian culture in Sanskrit ,संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit

Last line :-

दोस्तों मुझे उम्मीद है कि आपको यह “संस्कृत में स्वामी विवेकानंद पर निबंध | Essay on Swami Vivekananda in Sanskrit” ब्लॉग पसंद आया होगा, अगर आपको मेरा यह ब्लॉग पसंद आया है, तो इसे अपने दोस्तों के साथ और अपने सोशल मीडिया अकाउंट पर शेयर करें, लोगों को बताएं इसके बारे में भी।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top